Sanskrit Names

Names in Sanskrit
  • Home
  • About Us
  • Advertise With Us

Chanakya Neeti Slokas in Sanskrit: Chapter 12

May 5th, 2012 Sanskrit No comments

We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 12

Sloka 1: सानन्दं सदनं सुताश्च सुधयः कान्ता प्रियालापिनी

इच्छापूर्तिधनं स्वयोषिति रतिः स्वाज्ञापरः सेवकाः।

आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे

साधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रम्।।

Sloka 2: आर्तेषु विप्रेषु दयान्वितश्चेच्छ्रद्धेन यः स्वल्पमुपैति दानम्।

अनन्तपारं समुपैति दानं यद्दीयते तन्न लभेद् द्विजेभ्यः।।

Sloka 3: दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने

प्रीतिः साधुजने स्मय खलजने विद्वज्जने चार्जवम्।

शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तताः

इत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः।।

Sloka 4: हस्तौ दानवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणि

नेत्रे साधुविलोकरहिते पादौ न तीर्थं गतौ।

अन्यायार्जितवित्तपुर्णमुदरं गर्वेण तुङ्गं शिरौ

रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः।।

Sloka 5: येषां श्रीमद्यशोदासुत पद कमले नास्ति भक्तिर्नराणाम्

येषामाभीरकन्या प्रियगुणकथने नानुरक्ता रसज्ञा।

तेषां श्रीकृष्णलीला ललितरसकथा सादरौ नैव कर्णौ

धिक्तान् धिक्तान् धिगेतान् कथयति सततं कीर्तनस्था मृदङ्ग।।

Sloka 6: पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं

नोलूकोऽप्यवलोकयते यदि दिवा सूर्यस्य किं दूषणम्।

वर्षा नैव पतति चातकमुखे मेघस्य किं दूषणम्

यत्पूर्वं विधिना ललाट लिखितं तन्मार्जितुं कः क्षमः।।

Sloka 7: सत्सङ्गतेर्भवति हि साधुता खलानां

साधूनां न हि खलसङ्गतेः खलत्वम्।

आमोदं कुसुमभवं मृदेव धत्ते

मृद्गन्धं न हि कुसुमानि धारयन्ति।।

Sloka 8: साधूनां दर्शनं पुण्यं तीर्थभूताः हि साधवः।

कालेन फलते तीर्थः सद्यः साधु समागमः।।

Sloka 9: विप्रस्मिन्नगरे महान् कथय कस्ताल द्रुमाणां गणः

को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि।

को दक्षः परिवित्तदारहरणं सर्वेऽपि दक्षाः जनाः

कस्माज्जीवति हे सखे विषकृमिन्यायेन जीवाम्यहम्।।

Sloka 10: न विप्रपादोदक पङ्किलानि

न वेदशास्त्रध्वनिगर्जितानि।

स्वाहास्वधाकरध्वनिवर्जितानि

श्मशानतुल्यानि गृहाणितानि।।

Sloka 11: सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा।

शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः।।

Sloka 12: वयसः परिणामे हि यः खलाः खल एव सः।

सुपक्वमपि माधुर्यं नोपायतीन्द्र वारुणम्।।

Sloka 13: निमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः।

पत्युतसाहयुता नार्याः अहं कृष्ण रणोत्सवः।।

Sloka 14: मातृवत् परदारेषु परद्रव्याणि लोष्ठवत्।

आत्मवत् सर्वभूतानि यः पश्यति सः पण्डितः।।

Sloka 15: धर्मे तत्परता मुखे मधुरता दाने समुत्साहता

मित्रेऽवञ्चकता गुरौ विनयता चित्तेऽपि गम्भीरता।

आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञातृता

रूपे सुन्दरता शिवे भजनता त्वय्यस्ति भो राघव।।

Sloka 16: काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः

सूर्यस्तीव्रकरः शशिः क्षयकरः क्षारोहि निरवारिधिः।

कामो नष्टतनुर्बलिर्दितिसुतो नित्य पशुः कामगोः

नैतास्ते तुलयामि भो रघुपते कस्योपमा दीयते।।

Sloka 17: विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम्।

अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत् कैतवम्।।

Sloka 18: अनालोच्य व्ययं कर्ता चानाथः कलहप्रियः।

आर्तः स्त्रीहसर्वक्षेत्रेषु नरः शीघ्रं विन्श्यति।।

Sloka 19: जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।

स हेतु सर्वविद्यानां धर्मस्य च धनस्य च।।

Categories: Sanskrit Tags: chanakya, chanakya neeti, sanskrit text, slokas

Chanakya Neeti Slokas in Sanskrit: Chapter 11

April 22nd, 2012 Sanskrit No comments

We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 11

Sloka 1: दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता।

अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः।।

Sloka 2: आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत्।

स्वयमेव लयं याति यथा राज्यमधर्मतः।।

Sloka 3: हस्ती स्थूलतनुः स चाङ्कुश वश किं हसितमात्रोंऽकुशः।

दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः।।

Sloka 4: वज्रेणभिहताः पतन्ति गिरयः किं वज्रमात्रं नगाः।

तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः।।

Sloka 5: कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम्।

तदर्द्धे जाह्नवी तोयं तदर्द्धे ग्रामदेवता।।

Sloka 6: गृहासक्तस्य नो विद्या न दया मांसभोजिनः।

द्रव्य लुब्धस्य नो सत्यं न स्त्रैणस्य पवित्रता।।

Sloka 7: न दुर्जनः साधुदशामुपैति

बहु प्रकारैरपि शिक्ष्यमाणः।

आमूलसिक्तं पयसा घृतेन

न निम्बवृक्षोः मधुरत्वमेति।।

Sloka 8: अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि।

न शुद्धयतियथाभाण्डं सुरया दाहितं च तत्।।

Sloka 9: न वेत्ति यो यस्य गुणप्रकर्षं

स तु सदा निन्दति नात्र चित्रम्।

यथा किराती करिकुम्भलब्धां

मुक्तां परित्यज्य विभर्ति गुञ्जाम्।।

Sloka 10: यस्तु संवत्सरं पूर्णं नित्यं मौनेन भुञ्जते।

युगकोटिसहस्रन्तु स्वर्गलोके महीयते।।

Sloka 11: कामं क्रोधं तथा लोभं स्वाद शृङ्गारकौतुकम्।

अतिनिद्राऽतिसेवा च विद्यार्थी ह्याष्ट वर्जयेत्।।

Sloka 12: अकृष्ट फलमूलानि वनवासरतः सदा।

कुरुतेऽहरहः श्राद्धमृषिर्विप्रः स उच्यते।।

Sloka 13: एकाहारेण सन्तुष्टः षड्कर्मनिरतः सदा।

ऋतुकालेऽभिगामी च स विप्रो द्विज उच्यते।।

Sloka 14: लौकिके कर्मणि रतः पशूनां परिपालकः।

वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते।।

Sloka 15: परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः।

छलीद्वेषी मदुक्रूरो मार्जार उच्यते।।

Sloka 16: वापीकूपतडागानामारामसुखश्वनाम्।

उच्छेदने निराशंङ्क स विप्रो म्लेच्छ उच्यते।।

Sloka 17: देवद्रव्यं गुरुद्रव्यं परदाराभिमर्षणम्।

निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते।।

Sloka 18: देयं भोज्यधनं सुकृतिभिर्नो सञ्चयस्तस्य वै

श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्ति स्थिता।

अस्माकं मधुदानयोगरहितं नष्टं चिरात्सञ्चित

निर्वाणादिति नष्टपादयुगलं घर्षत्यमी मक्षिकाः।।

Categories: Sanskrit Tags: chanakya, chanakya neeti, sanskrit

Chanakya Neeti Slokas in Sanskrit: Chapter 10

April 20th, 2012 Sanskrit No comments

We bring you the 10th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 10

Sloka 1: धनहीनो न च हीनश्च धनिक स सुनिश्चयः।

विद्या रत्नेन हीनो यः स हीनः सर्ववस्तुषु।।

Sloka 2: दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिवेत्।

शास्त्रपूतं वदेद् वाक्यं मनः पूतं समाचरेत्।।

Sloka 3: सुखार्थी चेत् त्यजेद्विद्यां त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्।

सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्।।

Sloka 4: कवयः किं न पश्यन्ति किं न कुर्वन्ति योषितः।

मद्यपा किं न जल्पन्ति किं न खादन्ति वायसाः।।

Sloka 5: रङ्कं करोति राजानं राजानं रङ्कमेव च।

धनिनं निर्धनं चैव निर्धनं धनिनं विधिः।।

Sloka 6: लुब्धानां याचकः शत्रुर्मूर्खाणां बोधकः रिपुः।

जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः।।

Sloka 7: येषां न विद्या न तपो न दानं

न चापि शीलं च गुणो न धर्मः।

ते मर्त्यलोके भुवि भारभूता

मनुष्यरुपेण मृगाश्चरन्ति।।

Sloka 8: अन्तःसार विहीनानामुपदेशो न जायते।

मलयाचलसङ्गसर्गात् न वेणुश्चन्दनायते।।

Sloka 9: यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।

लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति।।

Sloka 10: दुर्जनं सज्जनं कर्तुमुपायो न हि भूतले।

अपानं शतघा धौतं न श्रेष्ठमिन्द्रियं भवेत्।।

Sloka 11: आप्तद्वेषाद् भवेन्मृत्युः परद्वेषात्तु धनक्षयः।

राजद्वेषाद् भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः।।

Sloka 12: वरं वनं व्याघ्रगजेन्द्रसेवितं

द्रुमालयः पत्रफलाम्बु सेवनम्।

तृणेशु शय्या शतजीर्णवल्कलं

न बन्धुमध्ये धनहीनजीवनम्।।

Sloka 13: विप्रो वृक्षस्तस्य मूलं सन्ध्या

वेदाः शास्त्रा धर्मकर्माणि पत्रम्।

तस्मान्मूलं यत्नतो रक्षणीयं

छिन्ने मूले नैव शाखा न पत्रम्।।

Sloka 14: माता च कमला देवी पिता देवो जनार्दनः।

बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम्।।

Sloka 15: एक वृक्षे समारूढा नानावर्णविहङ्गमाः।

प्रभाते दिक्षु गच्छन्ति तत्र का परिवेदना।।

Sloka 16: बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।

वने सिंहो मदोन्मत्तः शशकेन निपातितः।।

Sloka 17: का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते

नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्मयेत्।

Sloka 18: इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं

त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते।।

Sloka 19: गीर्वाणवाणीषु  विशिष्टबुद्धि

स्तथाऽपि भाषान्तर लोलुपोऽहम्।

यथा सुरगणेष्वमृते च सेविते

स्वर्गांगनानामधरासवे रुचिः।।

Sloka 20: अन्नाद् दशगुणं पिष्टं पिष्टाद् दशगुणं पयः।

पयसोऽष्ट गुणं मांसं मांसाद् दशगुणं घृतम्।।

Sloka 21: शोकेन रोगाः वर्धन्ते पयसा वर्धते तनुः।

घृतेन वर्धते वीर्य मांसान्मांसं प्रवर्धते।।

Categories: Sanskrit Tags: chanakya, chanakya neeti, sanskrit

Chanakya Neeti Slokas in Sanskrit: Chapter 9

April 18th, 2012 Sanskrit No comments

This perhaps would be the smallest chapter of Chanakya Neeti. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 9

Sloka 1: मुक्तिमिच्छसि चेतात विषयान् विषवत् त्यज।

क्षमाऽऽर्जवदयाशौचं सत्यं पीयूषवत् पिब।।

Sloka 2: परस्परस्य मर्माणि ये भाषन्ते नराधमाः।

ते एव विलयं यान्ति वल्मीकोदरसर्पवत्।।

Sloka 3: गन्धं सुवर्णे फलमिक्षुदण्डे

नाकारिपुष्पं खलु चन्दनस्य।

विद्वान धनी भूपतिदीर्घजीवी

धातुः पुरा कोऽपि न बुद्धिदोऽभूत्।।

Sloka 4: सर्वौषधीनामममृतं प्रधानं

सर्वेषु सौख्येष्वशनं प्रधानम्।

सर्वेन्द्रियाणां नयनं प्रधानं

सर्वेषु गात्रेषु शिरः प्रधानम्।।

Sloka 5: दूतो न सञ्चरित खे न चलेच्च वार्ता

पूर्वं न जल्पितमिदं न च सङ्गमोऽस्ति।

व्योम्निस्मिं रविशशिग्रहणं प्रशस्तं

जानाति यो द्विजवरः स कथं न विद्वान्।।

Sloka 6: विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः।

भाण्डारी च प्रतिहारी सप्तसुप्तान् प्रबोधयेत।।

Sloka 7: अहिं नृपं च शार्दूलं वराटं बालकं तथा।

परश्वानं च मूर्खं च सप्तसुप्तान् बोधयेत्।।

Sloka 8: अर्थाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजिनः।

ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः।।

Sloka 9: यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः।

निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति।।

Sloka 10: निर्विषेणापि सर्पेण कर्तव्या महती फणा।

विषमस्तु न वाप्यस्तु घटाटोपो भयङ्करः।।

Sloka 11: प्राप्त द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः।

रात्रौ चौरप्रसङ्गेन कालो गच्छति धीमताम्।।

Sloka 12: स्वहस्तग्रथिता माला स्वहस्तघृष्टचन्दनम्।

स्वहस्तलिखितस्तोत्रं शक्रस्यापि श्रियं हरेत्।।

Sloka 13: इक्षुदण्डास्तिलाः शूद्रा कान्ताकाञ्चनमेदिनी।

चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम्।।

Sloka 14: दरिद्रता धीरयता विराजते

कुवस्त्रता स्वच्छतया विराजते।

कदन्नता चोष्णतया विराजते

कुरूपता शीलतया विराजते।।

Categories: Sanskrit Tags: chanakya, chanakya neet, sanskrit

Chanakya Neeti Slokas in Sanskrit: Chapter 8

April 15th, 2012 Sanskrit No comments

I hope you have enjoyed the journey so far reading the text of Chanakya Neeti in the original Sanskrit format. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 8

Sloka 1: अधमा धनमिच्छन्ति धनं मानं च मध्यमाः।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्।।

Sloka 2: इक्षुरापः पयोमूलं ताम्बूलं फलमौषधम्।
भक्ष्यित्वापि कर्तव्या स्नानदानादिकाः क्रियाः।।

Sloka 3: दीपो भक्ष्यते ध्वान्तं कज्जलं च प्रसूयते।
यदन्नं भक्ष्यते नित्यं जायते तादृशी प्रजा।।

Sloka 4: चाण्डालानां सहस्रैश्च सूरिभिस्तत्वदर्शिभिः।
एको हि यवनः प्रोक्तो न नीचो चवनात्परः।।

Sloka 5: वित्तं देहि गुणान्वितेषु मतिमान्नान्यत्र देहि क्वचित्
प्राप्तं वारिनिधेर्जलं धनयुचां माधुर्ययुक्तं सदा।
जीवाः स्थावर जङ्गमाश्च सकला सञ्जीव्य भूमण्डलं
भूयं पश्य तदैव कोटिगुणितं गच्छन्त्यम्भोनिधिम्।।

Sloka 6: तैलाभ्यङ्गे चिताधूमे मैथुने क्षौर कर्मणि।
तावद्भवति चाण्डालो यावत्स्नानं न समाचरेत्।।

Sloka 7: अजीर्णे भेषजं वारि जीर्णे तद् बलप्रदम्।
भोजने चामृतं वारि भोजनान्तें विषप्रदम्।।

Sloka 8: हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानता नरः।
हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृका।।

Sloka 9: वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम्।
भोजनं च पराधीनं तिस्र पुंसां विडम्बना।।

Sloka 10: नाग्निंहोत्रं विना वेदा न च दानं विना क्रिया।
न भावेन विना सिद्धिस्तस्माद् भावो हि कारणम्।।

Sloka 11: काष्ठपाषाण धातुनां कृत्वा भावेन सेवनम्।
श्रद्धया च तथा सिद्धिस्तस्य विष्णोः प्रसादतः।।

Sloka 12: न देवो विद्यते काष्ठे न पाषाणे न मृण्मये।
भावे हि विद्यते देवस्तस्माद् भावो हि कारणम्।।

Sloka 13: शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम्।
न तृष्णया परो व्याधिर्न च धर्मो दयापरः।।

Sloka 14: क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी।
विद्या कामदुधा धेनुः संतोषो नन्दनं वनम्।।

Sloka 15: गुणो भूषयते रूपं शीलं भूषयते कुलम्।
सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्।।

Sloka 16: निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम्।
असिद्धस्य हता विद्या अभोगस्य हतं धनम्।।

Sloka 17: शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता।
शुचिः क्षेमकरो राजा सन्तोषी ब्राह्मण शुचिः।।

Sloka 18: असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभूलः।
सलज्जा गणिका नष्टानिर्लज्जाश्च कुलाङ्गनाः।।

Sloka 19: किं कुलेन विशालेन विद्याहीने च देहिनाम्।
दुष्कुलं चापि विदुषी देवैरपि हि पूज्यते।।

Sloka 20: विद्वान् प्रशस्यते लोके विद्वान् सर्वत्र गौरवम्।
विद्वया लभते सर्वं विद्या सर्वत्र पूज्यते।।

Sloka 21: मांसभक्ष्यैः सुरापानैमूर्खैश्छास्त्रवर्जितैः।
पशुभिः पुरुषाकारैण्क्रान्ताऽस्ति च मेदिनी।।

Sloka 22: अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः।
यजमानं दानहीनो नास्ति यज्ञसमो रिपुः।।

Categories: Sanskrit Tags:

Chanakya Neeti Slokas in Sanskrit: Chapter 7

April 13th, 2012 Sanskrit No comments

Moving forward, we present the seventh chapter of Chanakya Neeti, a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 7

Sloka 1: अर्थनाश मनस्तापं गृहिण्याश्चरितानि च।

नीचं वाक्यं चापमानं मतिमान्न प्रकाशयेत।।

Sloka 2: धनधान्य प्रयोगेषु विद्या सङ्ग्रहेषु च।

आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।।

Sloka 3: सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च।

न च तद्धनलुब्धानामितश्चेतश्च धावाताम्।।

Sloka 4: सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने।

त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः।।

Sloka 5: विप्रयोर्विप्रवह्नेश्च दम्पत्योः स्वामिभृत्ययोः।

अन्तरेण न गन्तव्यं हलस्य वृषभस्य च।।

Sloka 6: पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च।

नैव गावं कुमारीं च न वृद्धं न शिशुं तथा।।

Sloka 7: शकटं पञ्चहस्तेन दशहस्तेन वाजिनम्।

हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम्।।

Sloka 8: हस्ती त्वंकुशमात्रेण बाजो हस्तेन तापते।

शृङ्गीलकुटहस्तेन खड्गहस्तेन दुर्जनः।।

Sloka 9: तुष्यन्ति भोजने विप्रा मयूरा धनगर्जिते।

साधवः परसम्पत्तौ खलाः पर विपत्तिषु।।

Sloka 10: अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम्।

आत्मतुल्यबलं शत्रुं विनयेन बलेन वा।।

Sloka 11: बाहुवीर्यं बलं राजा ब्राह्मणो ब्रह्मविद बली।

रूपयौवनमाधुर्यं स्त्रीणां बलमुत्तमम्।।

Sloka 12: नात्यन्तं सरलेन भाव्यं गत्वा पश्य वनस्थलीम्।

छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः।।

Sloka 13: यत्रोदकं तत्र वसन्ति हंसाः

स्तथैव शुष्कं परिवर्जयन्ति।

न हंसतुल्येन नरेणभाव्यम्

पुनस्त्यजन्ते पुनराश्रयन्ते।।

Sloka 14: उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।

तडागोदरसंस्थानां परिदाह इदाम्मससाम्।।

Sloka 15: स्वर्गस्थितानामिह जीवलोके

चत्वारि चिह्नानि वसन्ति देहे।

दानप्रसङ्गो मधुरा च वाणी

देवार्चनं ब्राह्मणतर्पणं च।।

Sloka 16: अत्यन्तलेपः कटुता च वाणी

दरिद्रता च स्वजनेषु वैरम्।

नीच प्रसङ्गः कुलहीनसेवा

चिह्नानि देहे नरकस्थितानाम्।।

Sloka 17: गम्यते यदि मुगेन्द्रमन्विरे

लभ्यते करिकपोलमौक्तिकम्।

जम्बूकाश्रयगतं च प्राप्यते

वत्सपुच्छखरचर्मखण्डम्।।

Sloka 18: शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना।

न गुह्यगोपने शक्तं न च दंशनिवारणे।।

Sloka 19: वाचा च मनसः शौचं शौचमिन्द्रियनिग्रहः।

सर्वभूतदया शौचमेतचछौचं परमार्थिनाम्।।

Sloka 20: पुष्पे गन्धे तिले तैलं काष्ठे वह्निः पयोघृतम्।

इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः।।

Categories: Sanskrit Tags: chanakya, chanakya neeti, neeti, sanskrit

Chanakya Neeti Slokas in Sanskrit: Chapter 6

April 10th, 2012 Sanskrit No comments

Going along the flow, we have come to the sixth chapter of Chanakya Neeti, a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 6

Sloka 1: श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम्।

श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात्।।

 

Sloka 2: पक्षिणां काकश्चाण्डाल पशूनां चैव कुक्कुरः।

मुनीनां पापश्चाण्डालः सर्वेषु निन्दकः।।

 

Sloka 3: भस्मना शुद्धयते कांस्यं ताम्रमम्लेन शुद्धयति।

राजसा शुद्धयते नारी नदी वेगेन शुद्धयति।।

 

Sloka 4: भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः।

भ्रमन्सम्पूज्यते योगी स्त्री भ्रमती विनश्यति।।

 

Sloka 5: यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।

यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः।।

 

Sloka 6: तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः।

सहायास्तादृशा एव यादृशी भवितव्यता।।

 

Sloka 7: कालः पचति भूतानि कालः संहरते प्रजाः।

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।।

 

Sloka 8: नैव पश्यति जन्मान्धः कामान्धो नैव पश्यति।

मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति।।

 

Sloka 9: स्वयं कर्म कोत्यात्मा स्वयं तत्फलमश्नुते।

स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते।।

 

Sloka 10: राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः।

भर्ता च स्त्रीकृतं पापं शिष्य पाप गुरुस्तथा।।

 

Sloka 11: ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी।

भार्या रुपवती शत्रुः पुत्र शत्रु र्न पण्डितः।।

 

Sloka 12: लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलिकर्मणा।

मूर्खश्छन्दानुरोधेन यथार्थवादेन पण्डितम्।।

 

Sloka 13: कुराजराज्येन कृतः प्रजासुखं

कुमित्रमित्रेण कुतोऽभिनिवृत्तिः।

कुदारदारैश्च कुतो गृहे रतिः

कृशिष्यमध्यापयतः कुतो यशः।।

 

Sloka 14: सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्।

वायसात्पञ्च शिक्षेच्च षट् शुनस्त्रीणि गर्दभात्।।

 

Sloka 15: प्रभूतं कार्यमपि वा तत्परः प्रकर्तुमिच्छति।

सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते।।

 

Sloka 16: इन्द्रियाणि च संयम्य बकवत्पण्डितो नरः।

देशकालः बलं ज्ञात्वा सर्वकार्याणि साधयेत्।।

 

Sloka 17: सुश्रान्तोऽपि वहेद् भारं शीतोष्णं न पश्यति।

सन्तुष्टश्चरतो नित्यं त्रीणि शिक्षेच्च गर्दभात्।।

 

Sloka 18: प्रत्युत्थानं च युद्धं च संविभागश्च बन्धुषु।

स्वयमाक्रम्य भोक्तं च शिक्षेच्चत्वारि कुक्कुटात्।।

 

Sloka 19: गूढ मैथुनकारित्वं काले काले च संग्रहम्।

अप्रमत्तवचनमविश्वासं पञ्च शिक्षेच्च वायसात्।।

 

Sloka 20: वह्वशी स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः।

स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः।।

 

Sloka 21: य एतान् विंशतिगुणानाचरिष्यति मानवः।

कार्याऽवस्थासु सर्वासु अजेयः स भविष्यति।।

Categories: Sanskrit Tags:

Chanakya Neeti Slokas in Sanskrit: Chapter 5

April 8th, 2012 Sanskrit No comments

As we move along presenting the original Slokas of Chanakya Neeti, we have reached the fifth chapter of this great volume. Chanakya Neeti, a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 5

Sloka 1: गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यगतो गुरुः।।

Sloka 2: यथा चतुर्भिः कनकं परीक्ष्यते
निर्घषणच्छेदन तापताडनैः।
तथा चतुर्भिः पुरुषः परीक्ष्यते
त्यागेन शीलेन गुणेन कर्मणा।।

Sloka 3: तावद् भयेषु भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं दृष्टवा प्रहर्तव्यमशङ्कया।।

Sloka 4: एकोदरसमुद्भूता एक नक्षत्र जातका।
न भवन्ति समा शीले यथा बदरिकण्टकाः।।

Sloka 5: निस्पृहो नाधिकारी स्यान्न कामी भण्डनप्रिया।
नो विदग्धः प्रियं ब्रूयात् स्पष्ट वक्ता न वञ्चकः।।

Sloka 6: मूर्खाणां पण्डिता द्वेष्या अधनानां महाधाना।
वाराङ्गाना कुलीनानां सुभगानां च दुर्भगा।।

Sloka 7: आलस्योपहता विद्या परहस्तं गतं धनम्।
अल्पबीजहतं क्षेत्रं हतं सैन्यमनायकम्।।

Sloka 8: अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते।
गुणेन ज्ञायते त्वार्य कोपो नेत्रेण गम्यते।।

Sloka 9: वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते।
मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम्।।

Sloka 10: अन्यथा वेदपाण्डित्यं शास्त्रमाचारमन्यथा।
अन्यथा वदतः शान्तं लोकाः क्लिश्यन्ति चान्यथा।।

Sloka 11: दारिद्रयनाशनं दानं शीलं दुर्गतिनाशनम्।
अज्ञानतानाशिनी प्रज्ञा भावना भयनाशिनी।।

Sloka 12: नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः।
नास्ति कोप समो वह्नि र्नास्ति ज्ञानात्परं सुखम्।।

Sloka 13: जन्ममृत्युर्नियत्येको भुनक्तयेकः शुभाशुभम्।
नरकेषु पतत्येकः एको याति परां गतिम्।।

Sloka 14: तृणं ब्रह्मविद स्वर्गं तृणं शूरस्य जीवनम्।
जिमाक्षस्य तृणं नारी निःस्पृहस्य तृणं जगत्।।

Sloka 15: विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च।।

Sloka 16: वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्।
वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च।।

Sloka 17: नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम्।
नास्ति चक्षुसमं तेजो नास्ति चान्नसमं प्रियम्।।

Sloka 18: अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः।
मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः।।

Sloka 19: सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्।।

Sloka 20: चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे।
चलाचले च संसारे धर्म एको हि निश्चलः।।

Sloka 21: नाराणां नापितो धूर्तः पक्षिणां चैव वायसः।
चतुष्पदां शृगालस्तु स्त्रीणां धूर्ता च मालिनी।।

Categories: Sanskrit Tags:

Chanakya Neeti Slokas in Sanskrit: Chapter 4

April 6th, 2012 Sanskrit No comments

We have come up to the 4th chapter of Chanakya Neeti. Carrying forward our series, we present the original Slokas of the famous volume Chanakya Neeti by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 4

Sloka 1: आयुः कर्म वित्तञ्च विद्या निधनमेव च।

पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः।।

Sloka 2: साधुम्यस्ते निवर्तन्ते पुत्रः मित्राणि बान्धवाः।

ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम्।।

Sloka 3: दर्शनध्यानसंस्पर्शैर्मत्स्यी कूर्मी च पक्षिणि।

शिशु पालयते नित्यं तथा सज्जनसङ्गतिः।।

Sloka 4: यावत्स्वस्थो ह्यय देहः तावन्मृत्युश्च दूरतः।

तावदात्महितं कुर्यात् प्रणान्ते किं करिष्यति।।

Sloka 5: कामधेनुगुणा विद्या ह्ययकाले फलदायिनी।

प्रवासे मातृसदृशा विद्या गुप्तं धनं स्मृतम्।।

Sloka 6: एकोऽपि गुणवान् पुत्रो निर्गुणैश्च शतैर्वरः।

एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः।।

Sloka 7: मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः।

मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत्।।

Sloka 8: कुग्रामवासः कुलहीन सेवा

कुभोजन क्रोधमुखी च भार्या।

पुत्रश्च मूर्खो विधवा च कन्या

विनाग्निमेते प्रदहन्ति कायम्।।

Sloka 9: किं तया क्रियते धेन्वा या न दोग्ध्रो न गर्भिणी।

कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान्।।

Sloka 10: संसारातपदग्धानां त्रयो विश्रान्तिहेतवः।

अपत्यं च कलत्रं च सतां सङ्गतिरेव च।।

Sloka 11: सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः।

सकृत्कन्या प्रदीयन्ते त्रीण्येतानि सकृत्सकृत्।।

Sloka 12: एकाकिना तपो द्वाभयां पठनं गायनं त्रिभिः।

चतुर्भिगमन क्षेत्रं पञ्चभिर्बहुभि रणम्।।

Sloka 13: सा भार्या या सुचिदक्षा सा भार्या या पतिव्रता।

सा भार्या या पतिप्रीता सा भार्या सत्यावादिनी।।

Sloka 14: अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः।

मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता।।

Sloka 15: अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम्।

दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम्।।

Sloka 16: त्यजेद्धर्म दयाहीनं विद्याहीनं गुरुं त्यजेत्।

त्यजेत्क्रोधमुखी भार्या निःस्नेहान्बान्धवांस्यजेत्।।

Sloka 17: अध्वाजरं मनुष्याणां वाजिनां बन्धनं जरा।

अमैथुनं जरा स्त्रीणां वस्त्राणामातपं जरा।।

Sloka 18: कः कालः कानि मित्राणि को देशः को व्ययागमोः।

कस्याहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः।।

Sloka 19: जनिता चोपनेता च यस्तु विद्यां प्रयच्छति।

अन्नदाता भयत्राता पञ्चैता पितरः स्मृताः।।

Sloka 20: राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च।

पत्नीमाता स्वमाता च पञ्चैताः मातर स्मृताः।।

Categories: Sanskrit Tags: chanakya, chanakya neeti, sanskrit, slokas

Chanakya Neeti in Sanskrit–Chapter 3

April 5th, 2012 Sanskrit No comments

Carrying forward our series, we present the original Slokas of the famous volume Chanakya Neeti by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 1

Sloka 1: कस्य दोषः कुले नास्ति व्याधिना को न पीडितः।

व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम्।।

Sloka 2: आचारः कुलमाख्याति देशमाख्याति भाषणम्।

सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम्।।

Sloka 3: सकुले योजयेत्कन्या पुत्रं पुत्रं विद्यासु योजयेत्।

व्यसने योजयेच्छत्रुं मित्रं धर्मे नियोजयेत्।।

Sloka 4: दुर्जनेषु च सर्पेषु वरं सर्पो न दुर्जनः।

सर्पो दंशति कालेन दुर्जनस्तु पदे-पदे।।

Sloka 5: एतदर्थ कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम्।

आदिमध्यावसानेषु न त्यजन्ति च ते नृपम्।।

Sloka 6: प्रलये भिन्नमर्यादा भवन्ति किल सागराः।

सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः।।

Sloka 7: मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः।

भिनत्ति वाक्यशूलेन अदृश्ययं कण्टकं यथा।।

Sloka 8: रूपयौवनसम्पन्ना विशालकुलसम्भवाः।

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः।।

Sloka 9: कोकिलानां स्वरो रूपं नारी रूपं पतिव्रतम्।

विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्।।

Sloka 10: त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्।।

Sloka 11: उद्योगे नास्ति दारिद्रयं जपतो नास्ति पातकम्।

मौनेन कलहो नास्ति जागृतस्य च न भयम्।।

Sloka 12: अति रूपेण वै सीता चातिगर्वेण रावणः।

अतिदानाद् बलिर्बद्धो ह्यति सर्वत्र वर्जयेत्।।

Sloka 13: को हि भारः समर्थानां किं दूर व्यवसायिनाम्।

को विदेश सुविद्यानां को परः प्रियवादिनम्।।

Sloka 14: एकेनापि सुवर्ण पुष्पितेन सुगन्धिता।

वसितं तद्वनं सर्वं सुपुत्रेण कुलं यथा।।

Sloka 15: एकेन शुष्कवृक्षेण दह्यमानेन वह्निना।

दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा।।

Sloka 16: एकेनापि सुपुत्रेण विद्यायुक्ते च साधुना।

आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी।।

Sloka 17: किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः।

वरमेकः कुलावल्भबो यत्र विश्राम्यते कुलम्।।

Sloka 18: लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत्।

प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत्।।

Sloka 19: उपसर्गेऽन्यच्रके च दुर्भिक्षो च भयावहे।

असाधुजनसम्पर्के पलायति स जीवति।।

Sloka 20: धर्मार्थकाममोश्रेषु यस्यैकोऽपि न विद्यते।

जन्म जन्मानि मर्त्येषु मरणं तस्य केवलम्।।

Sloka 21: मूर्खाः यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम्।

दाम्पत्योः कलहो नास्ति तत्र श्री स्वयमागता।।

Categories: Sanskrit Tags:
Older Entries
san antonio dwi lawyer

How to Write Sanskrit Vowels

Contact Me:

Pages

  • About Us
  • Advertise With Us

  • saBunk Beds for Girls

Blogroll

  • Cheap Wedding Rings
  • Free Translation
  • How to Learn Linux
  • Rajnikanth Jokes
  • Sanskrit Tattoos
  • Sports

Read More

  • Sanskrit Names of Mathematical Fractions

  • Is keeping Mahabharata in house a bad omen

  • Sanskrit Numbers 1-10

  • Sanskrit Names of Feelings

  • Similar Letter in Sanskrit and English

  • Chanakya Neeti in Sanskrit–Chapter 2

  • 8 Similar Words in English and Sanskrit

  • Similar Letter in Sanskrit and English–structure

  • Sanskrit tattoos and meanings

  • Chanakya Neeti Slokas in Sanskrit: Chapter 8

Videos created by me

Top
Copyright © 2007-2012 Sanskrit Names